Original

ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः ।धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ११ ॥

Segmented

ब्राह्मणस्य वचः श्रुत्वा संतप्तो ऽथ युधिष्ठिरः धनुः आदाय कौन्तेयः प्राद्रवद् भ्रातृभिः सह

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
संतप्तो संतप् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i