Original

सौहृदात्सर्वभूतानां विश्वासो नाम जायते ।तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥ ४२ ॥

Segmented

सौहृदात् सर्व-भूतानाम् विश्वासो नाम जायते तस्मात् सत्सु विशेषेण विश्वासम् कुरुते जनः

Analysis

Word Lemma Parse
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विश्वासो विश्वास pos=n,g=m,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
सत्सु अस् pos=va,g=m,c=7,n=p,f=part
विशेषेण विशेष pos=n,g=m,c=3,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s