Original

वैशंपायन उवाच ।तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्भिः ।आमन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः ॥ १८ ॥

Segmented

वैशम्पायन उवाच तम् एवम् उक्त्वा वचनम् महा-ऋषिः तपस्वि-मध्ये सहितम् सुहृद्भिः आमन्त्र्य धौम्यम् सहितांः च पार्थांस् ततः प्रतस्थे दिशम् उत्तराम् सः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तपस्वि तपस्विन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
आमन्त्र्य आमन्त्रय् pos=vi
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
सहितांः सहित pos=a,g=m,c=2,n=p
pos=i
पार्थांस् पार्थ pos=n,g=m,c=2,n=p
ततः ततस् pos=i
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
सः तद् pos=n,g=m,c=1,n=s