Original

सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः ।दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् ।पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥ ५६ ॥

Segmented

सैन्धवस् तु हतान् दृष्ट्वा तथा अश्वान् स्वान् सु दुःखितः दृष्ट्वा विक्रम-कर्माणि कुर्वाणम् च धनंजयम् पलायन-कृत-उत्साहः प्राद्रवद् येन वै वनम्

Analysis

Word Lemma Parse
सैन्धवस् सैन्धव pos=n,g=m,c=1,n=s
तु तु pos=i
हतान् हन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
विक्रम विक्रम pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
पलायन पलायन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
येन यद् pos=n,g=n,c=3,n=s
वै वै pos=i
वनम् वन pos=n,g=n,c=1,n=s