Original

हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः ।गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥ ४० ॥

Segmented

हत-प्रवीराः रिपवो भूयिष्ठम् विद्रुता दिशः गृहीत्वा द्रौपदीम् राजन् निवर्ततु भवान् इतः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
रिपवो रिपु pos=n,g=m,c=1,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
विद्रुता विद्रु pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
गृहीत्वा ग्रह् pos=vi
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निवर्ततु निवृत् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
इतः इतस् pos=i