Original

सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् ।वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥ ३६ ॥

Segmented

सव्यसाची तु तम् दृष्ट्वा पलायन्तम् जयद्रथम् वारयामास निघ्नन्तम् भीमम् सैन्धव-सैनिकान्

Analysis

Word Lemma Parse
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पलायन्तम् पलाय् pos=va,g=m,c=2,n=s,f=part
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
सैन्धव सैन्धव pos=n,comp=y
सैनिकान् सैनिक pos=n,g=m,c=2,n=p