Original

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् ।संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ॥ ३६ ॥

Segmented

एवम् उक्तास् तु ते सर्वे तथा इति ऊचुः नर-अधिपम् संदिदेश ततो राजा व्यापार-स्थान् यथाक्रमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तास् वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
व्यापार व्यापार pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
यथाक्रमम् यथाक्रमम् pos=i