Original

तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः ।लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥ १२ ॥

Segmented

तान् तु सम्प्रस्थितान् दृष्ट्वा भीष्मः कुरु-पितामहः लज्जया व्रीडितो राजन् जगाम स्वम् निवेशनम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सम्प्रस्थितान् सम्प्रस्था pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
लज्जया लज्जा pos=n,g=f,c=3,n=s
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s