Original

तान्रथान्साधु संपन्नान्संयुक्ताञ्जवनैर्हयैः ।आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ॥ ४ ॥

Segmented

तान् रथान् साधु सम्पन्नान् संयुक्तान् जवनैः हयैः आस्थाय रथ-शार्दूलाः शीघ्रम् एव ययुस् ततः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
साधु साधु pos=a,g=n,c=2,n=s
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
आस्थाय आस्था pos=vi
रथ रथ pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
ययुस् या pos=v,p=3,n=p,l=lit
ततः ततस् pos=i