Original

एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना ।उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ॥ १४ ॥

Segmented

एवम् उक्तास् तु गन्धर्वाः पाण्डवेन यशस्विना उत्स्मयन्तस् तदा पार्थम् इदम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तास् वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
उत्स्मयन्तस् उत्स्मि pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan