Original

स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् ।प्रेषयामास कौरव्य उत्सारयत तानिति ॥ २२ ॥

Segmented

स तु तेषाम् वचः श्रुत्वा सैनिकान् युद्ध-दुर्मदान् प्रेषयामास कौरव्य उत्सारयत तान् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
कौरव्य कौरव्य pos=n,g=m,c=1,n=s
उत्सारयत उत्सारय् pos=v,p=2,n=p,l=lot
तान् तद् pos=n,g=m,c=2,n=p
इति इति pos=i