Original

ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् ।गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् ॥ १० ॥

Segmented

ततस् ते सहिताः सर्वे तरक्षून् महिषान् मृगान् गवय-ऋक्ष-वराहान् च समन्तात् पर्यकालयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तरक्षून् तरक्षु pos=n,g=m,c=2,n=p
महिषान् महिष pos=n,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
गवय गवय pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
वराहान् वराह pos=n,g=m,c=2,n=p
pos=i
समन्तात् समन्तात् pos=i
पर्यकालयन् परिकालय् pos=v,p=3,n=p,l=lan