Original

मार्कण्डेय उवाच ।अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् ।वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ।इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥ १४ ॥

Segmented

मार्कण्डेय उवाच अथ मातृ-गणः सर्वः स्कन्दम् वचनम् अब्रवीत् वयम् सर्वस्य लोकस्य मातरः कविभिः स्तुताः इच्छामो मातरस् तुभ्यम् भवितुम् पूजयस्व नः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
मातृ मातृ pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वयम् मद् pos=n,g=,c=1,n=p
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
मातरः मातृ pos=n,g=f,c=1,n=p
कविभिः कवि pos=n,g=m,c=3,n=p
स्तुताः स्तु pos=va,g=f,c=1,n=p,f=part
इच्छामो इष् pos=v,p=1,n=p,l=lat
मातरस् मातृ pos=n,g=f,c=1,n=p
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
भवितुम् भू pos=vi
पूजयस्व पूजय् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p