Original

द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् ।प्राध्मापयत भूतानां त्रासनं बलिनामपि ॥ २५ ॥

Segmented

द्वाभ्याम् भुजाभ्याम् बलवान् गृहीत्वा शङ्खम् उत्तमम् प्राध्मापयत भूतानाम् त्रासनम् बलिनाम् अपि

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
बलवान् बलवत् pos=a,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
प्राध्मापयत प्रध्मापय् pos=v,p=3,n=s,l=lan
भूतानाम् भूत pos=n,g=n,c=6,n=p
त्रासनम् त्रासन pos=a,g=n,c=2,n=s
बलिनाम् बलिन् pos=a,g=n,c=6,n=p
अपि अपि pos=i