Original

सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः ।स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः ॥ ४३ ॥

Segmented

सन्ति हि आगत-विज्ञानाः शिष्टाः शास्त्र-विचक्षणाः स्वधर्मेण क्रिया लोके कर्मणः सो अपि असंकरः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
हि हि pos=i
आगत आगम् pos=va,comp=y,f=part
विज्ञानाः विज्ञान pos=n,g=m,c=1,n=p
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
शास्त्र शास्त्र pos=n,comp=y
विचक्षणाः विचक्षण pos=a,g=m,c=1,n=p
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंकरः असंकर pos=n,g=m,c=1,n=s