Original

संघातयन्तः कौन्तेय राजानः पापबुद्धयः ।परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः ।भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥ ३२ ॥

Segmented

संघातयन्तः कौन्तेय राजानः पाप-बुद्धयः परस्पर-वध-उद्युक्ताः मूर्खाः पण्डित-मानिनः भविष्यन्ति युगस्य अन्ते क्षत्रिया लोक-कण्टकाः

Analysis

Word Lemma Parse
संघातयन्तः संघातय् pos=va,g=m,c=1,n=p,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
पाप पाप pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
उद्युक्ताः उद्युज् pos=va,g=m,c=1,n=p,f=part
मूर्खाः मूर्ख pos=a,g=m,c=1,n=p
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युगस्य युग pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
कण्टकाः कण्टक pos=n,g=m,c=1,n=p