Original

अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः ।मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ।रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ॥ ११ ॥

Segmented

अलकाः सह गन्धर्वैः यक्षैः च सह राक्षसैः मद्-नियुक्ताः मनुष्य-इन्द्र सर्वे च गिरि-वासिनः रक्षन्तु त्वा महा-बाहो सहितम् द्विज-सत्तमैः

Analysis

Word Lemma Parse
अलकाः अलक pos=n,g=m,c=1,n=p
सह सह pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
यक्षैः यक्ष pos=n,g=m,c=3,n=p
pos=i
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
मद् मद् pos=n,comp=y
नियुक्ताः नियुज् pos=va,g=m,c=1,n=p,f=part
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
गिरि गिरि pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p