Original

एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् ।अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ।विरराम महातेजास्तमेवार्थं विचिन्तयन् ॥ १३ ॥

Segmented

एवम् उक्त्वा स धर्म-आत्मा भ्राता भ्रातरम् अच्युतम् अर्थ-तत्त्व-विभाग-ज्ञः कुन्ती-पुत्रः युधिष्ठिरः विरराम महा-तेजाः तम् एव अर्थम् विचिन्तयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विभाग विभाग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part