Original

लोमश उवाच ।यः कथ्यते मन्त्रविदग्र्यबुद्धिरौद्दालकिः श्वेतकेतुः पृथिव्याम् ।तस्याश्रमं पश्य नरेन्द्र पुण्यं सदाफलैरुपपन्नं महीजैः ॥ १ ॥

Segmented

लोमश उवाच यः कथ्यते मन्त्र-विद् अग्र्य-बुद्धिः औद्दालकिः श्वेतकेतुः पृथिव्याम् तस्य आश्रमम् पश्य नरेन्द्र पुण्यम् सदाफलैः उपपन्नम् महीजैः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
मन्त्र मन्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अग्र्य अग्र्य pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
औद्दालकिः औद्दालकि pos=n,g=m,c=1,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
सदाफलैः सदाफल pos=a,g=m,c=3,n=p
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
महीजैः महीज pos=n,g=m,c=3,n=p