Original

एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् ।अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ।मत्कृते हि महाभागः पच्यते नरकाग्निना ॥ १२ ॥

Segmented

एतत् श्रुत्वा स राज-ऋषिः धर्मराजानम् अब्रवीत् अहम् अत्र प्रवेक्ष्यामि मुच्यताम् मम याजकः मद्-कृते हि महाभागः पच्यते नरक-अग्निना

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
प्रवेक्ष्यामि प्रविश् pos=v,p=1,n=s,l=lrt
मुच्यताम् मुच् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
याजकः याजक pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
हि हि pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
पच्यते पच् pos=v,p=3,n=s,l=lat
नरक नरक pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s