Original

कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः ।जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत ॥ ४ ॥

Segmented

कदाचित् तस्य वृद्धस्य यतमानस्य यत्नतः जन्तुः नाम सुतस् तस्मिन् स्त्री-शते समजायत

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
यत्नतः यत्न pos=n,g=m,c=5,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
नाम नाम pos=i
सुतस् सुत pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
स्त्री स्त्री pos=n,comp=y
शते शत pos=n,g=n,c=7,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan