Original

ततोऽनिरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥ १७ ॥

Segmented

ततो ऽनिरुद्धो अपि असि-चर्म-पाणिः महीम् इमाम् धार्तराष्ट्रैः विसंज्ञैः हृत-उत्तमाङ्गैः निहतैः करोतु कीर्णाम् कुशैः वेदिम् इव अध्वरेषु

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनिरुद्धो अनिरुद्ध pos=n,g=m,c=1,n=s
अपि अपि pos=i
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
विसंज्ञैः विसंज्ञ pos=a,g=m,c=3,n=p
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गैः उत्तमाङ्ग pos=n,g=m,c=3,n=p
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
करोतु कृ pos=v,p=3,n=s,l=lot
कीर्णाम् कृ pos=va,g=f,c=2,n=s,f=part
कुशैः कुश pos=n,g=m,c=3,n=p
वेदिम् वेदि pos=n,g=f,c=2,n=s
इव इव pos=i
अध्वरेषु अध्वर pos=n,g=m,c=7,n=p