Original

किं नाम लोकेष्वविषह्यमस्ति कृष्णस्य सर्वेषु सदैवतेषु ।आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे ॥ १६ ॥

Segmented

किम् नाम लोकेषु अविषह्यम् अस्ति कृष्णस्य सर्वेषु सदैवतेषु आत्त-आयुधस्य उत्तम-बाण-पाणेः चक्रायुधस्य अप्रतिमस्य युद्धे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नाम नाम pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
अविषह्यम् अविषह्य pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
सदैवतेषु सदैवत pos=a,g=m,c=7,n=p
आत्त आदा pos=va,comp=y,f=part
आयुधस्य आयुध pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
बाण बाण pos=n,comp=y
पाणेः पाणि pos=n,g=m,c=6,n=s
चक्रायुधस्य चक्रायुध pos=n,g=m,c=6,n=s
अप्रतिमस्य अप्रतिम pos=a,g=m,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s