Original

किं नाम वक्ष्यत्यवनिप्रधानः पितॄन्समागम्य परत्र पापः ।पुत्रेषु सम्यक्चरितं मयेति पुत्रानपापानवरोप्य राज्यात् ॥ १० ॥

Segmented

किम् नाम वक्ष्यति अवनि-प्रधानः पितॄन् समागम्य परत्र पापः पुत्रेषु सम्यक् चरितम् मया इति पुत्रान् अपापान् अवरोप्य राज्यात्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नाम नाम pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
अवनि अवनि pos=n,comp=y
प्रधानः प्रधान pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
समागम्य समागम् pos=vi
परत्र परत्र pos=i
पापः पाप pos=a,g=m,c=1,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
सम्यक् सम्यक् pos=i
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अपापान् अपाप pos=a,g=m,c=2,n=p
अवरोप्य अवरोपय् pos=vi
राज्यात् राज्य pos=n,g=n,c=5,n=s