Original

राम उवाच ।ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः ।कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥ १ ॥

Segmented

राम उवाच मे अपराधतः तैः क्षुद्रैः हतस् त्वम् तात बालिशैः कार्तवीर्यस्य दायादैः वने मृग इव इषुभिः

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
तैः तद् pos=n,g=m,c=3,n=p
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
हतस् हन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
बालिशैः बालिश pos=n,g=m,c=3,n=p
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
दायादैः दायाद pos=n,g=m,c=3,n=p
वने वन pos=n,g=n,c=7,n=s
मृग मृग pos=n,g=m,c=1,n=s
इव इव pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p