Original

स चेदवतरेद्राजन्विषयं ते महातपाः ।सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः ॥ २६ ॥

Segmented

स चेद् अवतरेद् राजन् विषयम् ते महा-तपाः सद्यः प्रवर्षेत् पर्जन्य इति मे न अत्र संशयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अवतरेद् अवतृ pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सद्यः सद्यस् pos=i
प्रवर्षेत् प्रवृष् pos=v,p=3,n=s,l=vidhilin
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s