Original

स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् ।मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ।आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ॥ ५ ॥

Segmented

स तत् श्रुत्वा वचो घोरम् राजा मुनि-मुख-उद्गतम् मुहूर्तम् विमना भूत्वा स्थाणोः वाक्यम् अचिन्तयत् आत्मानम् आत्मना आश्वास्य हयम् एव अन्वचिन्तयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
मुख मुख pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=n,c=2,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
स्थाणोः स्थाणु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आश्वास्य आश्वासय् pos=vi
हयम् हय pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वचिन्तयत् अनुचिन्तय् pos=v,p=3,n=s,l=lan