Original

ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः ।सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ॥ ११ ॥

Segmented

ततः पौराः समाजग्मुः भय-शोक-परिप्लुताः सगरम् च अभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पौराः पौर pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
भय भय pos=n,comp=y
शोक शोक pos=n,comp=y
परिप्लुताः परिप्लु pos=va,g=m,c=1,n=p,f=part
सगरम् सगर pos=n,g=m,c=2,n=s
pos=i
अभ्ययाचन्त अभियाच् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part