Original

आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ।यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ॥ १९ ॥

Segmented

आपद्-धर्म-अर्थ-कृच्छ्रेषु सर्व-कार्येषु वा पुनः यथावत् प्रतिपद्येथाः काले काले युधिष्ठिर

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
यथावत् यथावत् pos=i
प्रतिपद्येथाः प्रतिपद् pos=v,p=2,n=s,l=vidhilin
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s