Original

वैशंपायन उवाच ।इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः ।मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥ १२ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा भीमसेनः तु कनिष्ठैः भ्रातृभिः वृतः मृग-मध्ये यथा सिंहो मुहुः परिघम् ऐक्षत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
कनिष्ठैः कनिष्ठ pos=a,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
मृग मृग pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
परिघम् परिघ pos=n,g=m,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan