Original

एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः ।त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ॥ ५ ॥

Segmented

एषा हि अनर्हती बाला पाण्डवान् प्राप्य कौरवैः त्वद्-कृते क्लिश्यते क्षुद्रैः नृशंसैः निकृति-प्रियैः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
अनर्हती अनर्हत् pos=a,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
कौरवैः कौरव pos=n,g=m,c=3,n=p
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
क्लिश्यते क्लिश् pos=v,p=3,n=s,l=lat
क्षुद्रैः क्षुद्र pos=a,g=m,c=3,n=p
नृशंसैः नृशंस pos=a,g=m,c=3,n=p
निकृति निकृति pos=n,comp=y
प्रियैः प्रिय pos=a,g=m,c=3,n=p