Original

विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ ।ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ॥ ३१ ॥

Segmented

विविशुः ते ऽभ्यनुज्ञाता रत्नवन्ति गृहाणि अथ ददृशुः च उपयाताः तान् द्रौपदी-प्रमुखाः स्त्रियः

Analysis

Word Lemma Parse
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
रत्नवन्ति रत्नवत् pos=a,g=n,c=2,n=p
गृहाणि गृह pos=n,g=n,c=2,n=p
अथ अथ pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
उपयाताः उपया pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
द्रौपदी द्रौपदी pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p