Original

वैशंपायन उवाच ।ततः प्रायाद्विदुरोऽश्वैरुदारैर्महाजवैर्बलिभिः साधुदान्तैः ।बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रायाद् विदुरो ऽश्वैः उदारैः महा-जवैः बलिभिः साधु-दान्तैः बलात् नियुक्तः धृतराष्ट्रेण राज्ञा मनीषिणाम् पाण्डवानाम् सकाशम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽश्वैः अश्व pos=n,g=m,c=3,n=p
उदारैः उदार pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
बलिभिः बलिन् pos=a,g=m,c=3,n=p
साधु साधु pos=a,comp=y
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
बलात् बल pos=n,g=n,c=5,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
सकाशम् सकाश pos=n,g=m,c=2,n=s