Original

आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा ।तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥ १३ ॥

Segmented

आदातुम् हि नर-व्याघ्रः यम् यम् इच्छति अयम् यदा तस्य विप्लवते बुद्धिः एवम् चेदि-पत्युः यथा

Analysis

Word Lemma Parse
आदातुम् आदा pos=vi
हि हि pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
यदा यदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विप्लवते विप्लु pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
चेदि चेदि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
यथा यथा pos=i