Original

ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः ॥ १५ ॥

Segmented

ततः शब्देन महता भर्त्सयन्तौ परस्परम् पाषाण-संघात-निभैः प्रहारैः अभिजघ्नतुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
भर्त्सयन्तौ भर्त्सय् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
पाषाण पाषाण pos=n,comp=y
संघात संघात pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit