Original

अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ।ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥ ३५ ॥

Segmented

अवश्यम् नरकः तात द्रष्टव्यः सर्व-राजभिः ततस् त्वया प्राप्तम् इदम् मुहूर्तम् दुःखम् उत्तमम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
नरकः नरक pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s