Original

उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः ।व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः ॥ ११ ॥

Segmented

उदय-अस्तमने नित्यम् पुर्याम् तस्याम् दिवाकरः व्यदृश्यत असकृत् पुंभिः कबन्धैः परिवारितः

Analysis

Word Lemma Parse
उदय उदय pos=n,comp=y
अस्तमने अस्तमन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
पुर्याम् पुरी pos=n,g=f,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
असकृत् असकृत् pos=i
पुंभिः पुंस् pos=n,g=m,c=3,n=p
कबन्धैः कबन्ध pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part