Original

कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते ।अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ।अप्यस्याः सफलो राजन्वनवासो भविष्यति ॥ ११ ॥

Segmented

कच्चित् ते वर्धते राजन् तपः मन्द-श्रमस्य ते अपि मे जननी च इयम् शुश्रूषुः विगत-क्लमा अपि अस्याः स फलः राजन् वन-वासः भविष्यति

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=1,n=s
मन्द मन्द pos=a,comp=y
श्रमस्य श्रम pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
शुश्रूषुः शुश्रूषु pos=a,g=f,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमा क्लम pos=n,g=f,c=1,n=s
अपि अपि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
फलः फल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt