Original

तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः ।स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः ॥ ६ ॥

Segmented

तम् आज्ञाय मुनिः क्रोधम् न एव अस्य चुकुपे ततः स तु क्रोधस् तम् आह इदम् प्राञ्जलिः मूर्तिमान् स्थितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चुकुपे कुप् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्रोधस् क्रोध pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part