Original

पितोवाच ।रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥ ३८ ॥

Segmented

पिता उवाच रूपेण सदृशः त्वम् मे शीलेन च दमेन च परीक्षितः च बहुधा सक्तून् आदद्मि ते ततः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रूपेण रूप pos=n,g=n,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
शीलेन शील pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
परीक्षितः परीक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
बहुधा बहुधा pos=i
सक्तून् सक्तु pos=n,g=m,c=2,n=p
आदद्मि आदा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
ततः ततस् pos=i