Original

स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् ।आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥ १७ ॥

Segmented

स उञ्छ-वृत्तिः तम् प्रेक्ष्य क्षुधा-परिगतम् द्विजम् आहारम् चिन्तयामास कथम् तुष्टो भवेद् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उञ्छ उञ्छ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
क्षुधा क्षुधा pos=n,comp=y
परिगतम् परिगम् pos=va,g=m,c=2,n=s,f=part
द्विजम् द्विज pos=n,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i