Original

उवाचेदं मानुषा ये च दिव्याः प्रजापतेर्ये च लोका महान्तः ।तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः ॥ २३ ॥

Segmented

उवाच इदम् मानुषा ये च दिव्याः प्रजापतेः ये च लोका महान्तः तान् चेद् लभेयम् संविदम् तेन कृत्वा तथा अपि न इच्छेयम् इति प्रतीतः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
मानुषा मानुष pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
दिव्याः दिव्य pos=a,g=m,c=1,n=p
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
लोका लोक pos=n,g=m,c=1,n=p
महान्तः महत् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
चेद् चेद् pos=i
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
संविदम् संविद् pos=n,g=f,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
कृत्वा कृ pos=vi
तथा तथा pos=i
अपि अपि pos=i
pos=i
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part