Original

मरुत्त उवाच ।संवर्तोऽयं याजयिता द्विजो मे बृहस्पतेरञ्जलिरेष तस्य ।नासौ देवं याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥ १६ ॥

Segmented

मरुत्त उवाच संवर्तो ऽयम् याजयिता द्विजो मे बृहस्पतेः अञ्जलिः एष तस्य न असौ देवम् याजयित्वा महा-इन्द्रम् मर्त्यम् सन्तम् याजयन्न् अद्य शोभेत्

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संवर्तो संवर्त pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
द्विजो द्विज pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
याजयित्वा याजय् pos=vi
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
मर्त्यम् मर्त्य pos=n,g=m,c=2,n=s
सन्तम् अस् pos=va,g=m,c=2,n=s,f=part
याजयन्न् याजय् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
शोभेत् शुभ् pos=v,p=3,n=s,l=vidhilin