Original

इन्द्र उवाच ।कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते ।कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥ १ ॥

Segmented

इन्द्र उवाच कच्चित् सुखम् स्वपिषि त्वम् बृहस्पते कच्चित् मनोज्ञाः परिचारकाः ते कच्चिद् देवानाम् सुख-कामः ऽसि विप्र कच्चिद् देवाः त्वा परिपालयन्ति

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कच्चित् कच्चित् pos=i
सुखम् सुखम् pos=i
स्वपिषि स्वप् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
मनोज्ञाः मनोज्ञ pos=a,g=m,c=1,n=p
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
कच्चिद् कच्चित् pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,g=m,c=8,n=s
कच्चिद् कच्चित् pos=i
देवाः देव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
परिपालयन्ति परिपालय् pos=v,p=3,n=p,l=lat