Original

बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः ।समृद्धिमति देवेभ्यः संतापमकरोद्भृशम् ॥ ३३ ॥

Segmented

बृहस्पतिः तु ताम् श्रुत्वा मरुत्तस्य महीपतेः समृद्धिम् अति देवेभ्यः संतापम् अकरोद् भृशम्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
अति अति pos=i
देवेभ्यः देव pos=n,g=m,c=5,n=p
संतापम् संताप pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i