Original

तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे ।सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥ ८ ॥

Segmented

ते असमीक्ष्य एव तम् वीरम् उग्र-कर्माणम् आहवे सर्वे युयुधिरे वीरा रथ-स्थाः तम् पदातिनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
असमीक्ष्य असमीक्ष्य pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
युयुधिरे युध् pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s