Original

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् ।प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ॥ २ ॥

Segmented

ते ऽवतीर्णम् उपश्रुत्य विषयम् श्वेतवाहनम् प्रत्युद्ययुः अमृष्यन्तो राजानः पाण्डव-ऋषभम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽवतीर्णम् अवतृ pos=va,g=m,c=2,n=s,f=part
उपश्रुत्य उपश्रु pos=vi
विषयम् विषय pos=n,g=m,c=2,n=s
श्वेतवाहनम् श्वेतवाहन pos=n,g=m,c=2,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
अमृष्यन्तो अमृष्यत् pos=a,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s