Original

इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ ॥ २१ ॥

Segmented

इषीकाम् वा यथा मुञ्जात् कश्चिद् निर्हृत्य दर्शयेत् योगी निष्कृष्टम् आत्मानम् तथा संपश्यते तनौ

Analysis

Word Lemma Parse
इषीकाम् इषीका pos=n,g=f,c=2,n=s
वा वा pos=i
यथा यथा pos=i
मुञ्जात् मुञ्ज pos=n,g=m,c=5,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
निर्हृत्य निर्हृ pos=vi
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
योगी योगिन् pos=n,g=m,c=1,n=s
निष्कृष्टम् निष्कृष् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
संपश्यते संपश् pos=v,p=3,n=s,l=lat
तनौ तनु pos=n,g=f,c=7,n=s