Original

ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर ।निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥ ४२ ॥

Segmented

ऋषीणाम् समयम् नित्यम् ये चरन्ति युधिष्ठिर निश्चिताः सर्व-धर्म-ज्ञाः तान् देवा ब्राह्मणान् विदुः

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
समयम् समय pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
ये यद् pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
विदुः विद् pos=v,p=3,n=p,l=lit