Original

षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति ।पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥ १२ ॥

Segmented

षष्टिम् काणः शतम् षण्ढः श्वित्री यावत् प्रपश्यति पङ्क्त्याम् समुपविष्टायाम् तावद् दूषयते नृप

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
काणः काण pos=a,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
षण्ढः षण्ढ pos=n,g=m,c=1,n=s
श्वित्री श्वित्रिन् pos=a,g=m,c=1,n=s
यावत् यावत् pos=i
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat
पङ्क्त्याम् पङ्क्ति pos=n,g=f,c=7,n=s
समुपविष्टायाम् समुपविश् pos=va,g=f,c=7,n=s,f=part
तावद् तावत् pos=i
दूषयते दूषय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s